This page has not been fully proofread.

श्रीदक्षिणामूर्तिस्तोत्रम्.
 
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥
 

 
'विश्वं' विविधप्रत्ययगम्यं वियदादि सर्वमिदं जगत्, 'निजान्त-
र्गतं' निजं स्वीयं अन्तः मध्यं गतं प्राप्तं, प्रत्यक्स्वरूपे स्थितमिति
यावत् । निर्विकारे नीरन्ध्रेऽतिस्वच्छेऽसङ्गे सूक्ष्मे प्रतीचि जग-
तस्तद्विपरीतस्य स्थितौ तत्सदृशं दृष्टान्तमाह - 'दर्पणदृश्यमाननगरी-
तुल्यम्' इति । दर्पणे आदर्श नीरन्ध्रे असङ्गे स्वच्छे सूक्ष्मे निर्वि-
कारे प्रतिबिम्बिता सती दृश्यमाना अवलोक्यमाना या नगरी पुरी
चतुर्दशसन्निवेशा सप्तवापीयुक्ता नानोपवना दक्षिणोत्तरतोतिमनोहर-
मार्गद्वयविभूषिता मङ्गळदीपिकाद्वयविराजिता अनेकक्रीडाशिखरियुता
नानाविधजनसङ्कुला क्वचिद्धटृ1 मार्गप्रदेशयुता च, तत्तुल्यं तत्समानम् ।
तदुक्तं भारतीतीर्थैः-
 
---
 
निश्छिद्रदर्पणे भाति वस्तुगर्भं बृहज्जगत् ।
सच्चित्सुखे तथा नानाजगद्गर्भमिदं वियत्2 ॥ इति ।
वासिष्ठेऽपि शिलोपाख्याने इदमुक्तम् –
 
द्यौः क्ष्मा वायुरथाकाशः पर्वतास्सरितो दिशः ।
सन्ति तस्यां शिला सा च सुषिरा न मनागपि ॥
 
1 " चित्कष्ट " चिदष्ट' इति पाठान्तरे, 2 पञ्चदश्यां १३ -९९.