This page has not been fully proofread.

ओम्.
 
श्रीदक्षिणामूर्तिस्तोत्रम्
 
स्वयंप्रकाशयतिविरचितव्याख्यासहितम्.
 
मौनव्याख्याप्रकटितपरब्रह्मतत्वं युवानं
वर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलितचिन्मुद्रमानन्दमूर्ति
 
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ १ ॥
 
कैवल्यानन्दयोगीन्द्रशुद्धानन्दयतीश्वरौ ।
नत्वार लघुव्याख्यां दक्षिणाशामुखस्तुतेः ॥ २ ॥
 
इह खलु सर्वज्ञो भगवान्भाष्यकारो लोकानुग्रहकप्रयोजनकृतशरीर-
परिग्रहः सकलवेदान्तदुग्धाब्धेः न्यायमन्दरेण विचारनिर्मन्थनादा-
विर्भूता द्वैतामृतस्य विन्यासकलशभूतं श्रीदक्षिणामूर्तिस्तोत्रं सकललो-
कानुजिघृक्षया भोक्तृजीवभोग्यजगद्भोगप्रदपरमेश्वरमोक्षप्रदगुरूणामत्यन्ता-
भेदबोधकं सकृत्पाठश्रवणार्थमननादिमात्रेण परमपुरुषार्थप्रापकमारभ-
माणस्तस्य वेदान्तसारभूतनवनीतपिण्डात्मकत्वेन तदीयविषयादिभिरेव
तद्वत्तासिद्धिमभिप्रेत्य, आदौ प्रतीचस्सकलजगदधिष्ठानत्वेन परमे-
श्वरतां दर्शयन् दक्षिणाशामुखं परमेश्वरं मनसा पूजयति विश्वमिति ॥