2023-06-23 07:07:11 by jayusudindra
This page has been fully proofread once and needs a second look.
शब्दानामर्थावबोधकतात्मकः अभिधालक्षणादिगतः
सामर्थ्यरूपः व्यापरः एव शब्दवृत्तिः । अयम् अभिधा लक्षणा
व्यञ्जना चेति त्रिविधा ।
शब्दशक्तिमूलध्वनिः
91
संलक्ष्यक्रमव्यङ्ग्यध्वनौ द्वौ भेदौ वर्तेते शब्दशक्ति-
मूलध्वनिः, अर्थशक्तिमूलध्वनिश्चेति । यत्र वाच्यार्थप्राप्त्यनन्तरं
शब्दस्य अनुरणनव्यापरमुखः कश्चनापरो विशिष्टार्थः
अभिव्यज्यते । तथाभिव्यज्यमानोऽयमर्थः शब्दशक्तिमूलक:
ध्वनिविषयः इति कारणादयं ध्वनिप्रकारः शब्दशक्तिमूलध्वनिरिति
व्यवह्रियते ।
शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्यध्वनिप्रकाराः
संलक्ष्यक्रमव्यङ्ग्यध्वनेः/ अनुस्वानरूपव्यङ्ग्यध्वनेः द्वयोः
प्रकारयोरन्यतरः शब्दशक्तिमूलध्वनिः । अस्मिन् वस्तुध्वनिरिति,
अलङ्कारध्वनिरिति द्वौ भेदौ स्तः । एतयोर्द्वयॊः पुनः एकैकस्मिन्
वाक्य
पदगत - वाक्यगत - भेदेन द्वौ द्वौ भेदौ सम्भवतः । एवं
-
पदगत
चत्वारो प्रकाराः सम्भवन्ति शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्यध्वनौ।
शान्तः
-
शमस्थायीभावात्मकः उत्तमप्रकृतिः रसः शान्तः ।