This page has not been fully proofread.

90
 
शोकः
 
शोको हि करुणस्थायिभावः । इष्टजनवियोग-विभवनाश-
वध-बन्धन-दुःखानुभवनादिभ्योऽनुभावेभ्यः शोकः उत्पद्यते ।
 
शब्दतत्त्वविदः
 
वैयाकरणाः।
 
शब्दधर्माः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
शम:
 
नादादिहेतुको यः स्यादक्षराणां समुच्चयः ।
आनुपूर्वीसमुल्लेखः स शब्दव्यपदेशभाक् ॥
इति शब्दस्य निर्वचनं दृश्यते शास्त्रे ।
 
अधिष्ठानं स्वभावश्च गुणाः कार्यान्वयस्तथा
तादात्म्यं चेति शब्दस्य तद्गुणाः पञ्च कीर्तिताः ॥
इति ये पञ्च गुणाः प्रोक्ताः शब्दस्य ते एव शब्दस्य धर्माः
भवन्ति।
 
शम्यते इति शमः । शान्तरसस्य स्थायी भावोऽयम्।
विक्षेपकर्मोपरमः शम इत्युच्यते । सर्वकर्मनिवृत्तिः शम इति च
कथ्यते कैश्चित् । अन्तरिन्द्रियनिग्रहः शम इति अन्तःकरणसंयमः
शम इति च निरुच्यते । "शमो निरीहावस्थायां स्वात्मविश्रामजं
सुखम्" इति विश्वनाथकविराजस्य वचनम्।