This page has been fully proofread once and needs a second look.

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ॥

त्रयत्रिंशदमी भावाः समाख्यातास्तु नामतः ॥
 

 

 

 
शक्तिः
 

१) सामर्थ्यम्।
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
89
 

२) न्यायशास्त्रमनुसृत्य कारणनिष्ठकार्योत्पादनयोग्यता शक्तिः ।
 

३) शब्दनिष्ठा अर्थबोधकतारूपा बोध्यत्वप्रकारकेच्छाविषयत्वरूपा

वृत्तिभेदः शक्तिरित्युच्यते ।
 

४) शक्तिः कवित्वबीजरूपः संस्कारविशेषः यां विना काव्यं न

प्रसरेत् प्रसृतं वोपहसनीयं स्यात् । इति आचार्यमम्मटमहाशयस्य

वचनम्। अतोऽत्र कवित्वबीजरूपा प्रतिभा शक्तिरित्युच्यते ।
 

 
शब्द:
 

नादादिहेतुको यः स्यादक्षराणां समुच्चयः ।

आनुपूर्वीसमुल्लेखः स शब्दव्यपदेशभाक् ॥ कुम्भकर्णः

स्वीये सङ्गीतराजे। वाचकः, लक्षकः, व्यञ्जकः इति त्रिविधः ।
 

 
शब्दचित्रम्
 
शब्दचित्रमित्युच्यते ।
 

वाचकप्रधानमथवा अभिधानप्रधानं चित्रकाव्यं
 

शब्दचित्रमित्युच्यते ।