2023-06-19 14:42:17 by ambuda-bot
This page has not been fully proofread.
88
व्यभिचारिभावाः
ध्वन्यालोकपारिभाषिकपदकोशः
व्यभिचारिभवानां विषये नाट्यशास्त्रे भरतमुनिना
इत्थमभिहितम् ।
"व्यभिचारिण इदानीं वक्ष्यामः । अत्राह । व्यभिचारिणः
इति कस्मात् ? उच्यते । वि अभि इत्येतावुपसर्गौ । चर गतौ
धातुः। धात्वर्थे वागङ्गसत्त्वोपेतान् विविधमभिमुकेन रसेषु
चरन्तीति व्यभिचारिणः चरन्ति नयन्तीति अर्थः । कथं नयन्ति
उच्यते - यथा सूर्यःनक्षत्रममुं वासरं नयतीति । न च तेन
बाहुभ्यां स्कन्धेन वा नीयते किं तु लोकप्रसिद्धमेतत्। यथायं
सूर्यो नक्ष्त्रामिदं वा नयतीति एवमेते व्यभिचारिणः इत्यव-
गन्तव्याः।" इति।
विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ ॥
इति दशरूपके प्रोक्तम्।
निर्वेदग्लानिशङ्काख्याः तथासूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥
व्रीडा चपलता हर्षं आवेगो जडता तथा ।
गर्यो विषाद: औत्सुक्यं निद्रापस्मार एव च ॥
सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिरथोन्मादस्तथा मरणमेव च ॥