This page has not been fully proofread.

व्यङ्ग्यालङ्कारवर्गः
 
व्यङ्ग्यार्थप्रधानानाम् अलङ्काराणां वर्गः ।
 
व्यञ्जकः
 
व्यञ्जनाव्यापारे शब्दः व्यञ्जकः ।
 
व्यञ्जकविशेषाः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
वर्णाः, पदंशाः, पदानि, वाक्यम्, सङ्घटना, प्रबन्धः
 
तत्सदृशानि सर्वाण्यपि व्यङ्ग्यार्थद्योतकानि भवन्तीति कारणेन
एते सर्वेऽपि व्यञ्जकविशेषाः भवन्ति ।
 
व्यपदेशः
 
नाम, अभिधानम्।
 
व्यापारः
 
साहित्यमीमांसायां
 
87
 
वृत्तिरेव व्यापारः । अस्यैव शक्तिरित्यपि व्यवहारो दृश्यते ।
 
-
 
''वृत्तिः पदानां व्यापारः पदार्थप्रतिपादने" इति कथितम् ।
शब्दस्य प्रकृतिप्रत्ययादेः शक्तयः एव अर्थबोधे सहकारि-
वृत्तयः। अर्थबोधे शब्दतद्वृत्तिज्ञानमेव कारणम् भवति। शब्दगतं
एवंविधार्थबोधकारणत्वसामर्थ्यमेव आलङ्कारिकैः शक्तिरिति
नैयायिकैः वृत्तिरिति च कथ्यते।