This page has not been fully proofread.

86
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
वृत्तिः / वृत्तयः
 
वृत्तिरित्यत्र वृतेर्भावे क्तिन् प्रत्ययः । तेनोचितैव
व्यापारार्थकता।
 
व्यवहारो हि वृत्तिरित्युच्यते । अयं व्यवहारः रसोपयोग-
जीवितः शब्दवृत्तिलक्षणः इति लोचनकारोक्तिः । अत्र रसानुगुण-
मौचित्यमावहन्तः वाच्याश्रयाः व्यवहारविशेषाः कैशिक्यादिवृत्तयः
(कैशिकी, आरभटी, सात्त्वती, भारतीति) इति संज्ञिताः ।
वाचकाश्रिताश्च उपनागिरकाद्याः । (उपनागरिका, परुषा, कोमला
चेति ।
 
वैदर्भी
 
वामनमतानुसारं त्रिविधासु रीतिष्वन्यतमेयं रीतिः ।
 
अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता।
विपञ्चीस्वरसौभग्या वैदर्भीरीतिरिष्यते ॥
 
इत्यस्य निर्वचनम् च तदुक्तिष्वेव ।
 
व्यङ्ग्यः
 
व्यज्यते असाविति व्यङ्ग्यः । व्यञ्जनया बोध्यो अर्थः
 
व्यङ्ग्यः ।
 
व्यङ्ग्यधर्मः
 
व्यङ्ग्यार्थस्य धर्मः ।