This page has been fully proofread once and needs a second look.

विशेषोक्तिः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

कार्याजनिर्विशेषोक्तिस्सति पुष्कलकारणे ।

हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि ॥
 

इति चन्द्रालोककारेणोक्तम् ।

 
विस्मयः
 

अद्भुतरसस्य स्थायीभावः ।
 

विविधेषु पदार्थेषु लोकसीमातिवर्तिषु ।

विस्फारश्चेतसो वस्तु स विस्मय उदाहृतः ॥
 

इति साहित्यदर्पणकारेणोक्तम्।
 

 
वीरः
 
85
 

उत्तमप्रकृतिकोऽयं रसः उत्साहस्थायीभावात्मकः । अयं

च असंमोहाध्यवसायनयविनयबहुलपराक्रम शक्तिप्रतापप्रभावादिभि-

र्विभावजन्या भवति। स्थैर्यंम्, शौर्यम्, धैर्यम्, त्यागः, वैशारद्यम्

च अस्य अनुभावाः ।
 

धृतिः, मतिः, गर्वः, वेगः, औग्र्यम्, अमर्षः, स्मृतिः, रोमाञ्चः

तदितराश्च अस्य सञ्चारिभावाः भवन्ति ।
 

 
वृत्तम्
 

१) छन्दसः प्रभेदः ।
 

२) जातम् इतिवृत्तम् । इतिहासोद्भवम् इतिवृत्तम् । प्रसिद्ध-

नेतृचरितम् ।