This page has not been fully proofread.

84
 
विवक्षिताभिधेयस्य स्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे
 
वाक्यप्रकाशता
 
ध्वन्यालोक्पारिभाषिकपदकोशः
 
सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गव्विरी भमइ ।
मुत्ताफलरइअपसाहणाएँ भज्झे सवत्तीणम् ॥
 
[शिखिपिच्छकर्णपूरा भार्या व्याधस्य गर्विणी भ्रमति ।
मुक्ताफलरचितप्रसाधननां मध्ये सपत्नीनाम् ॥ छाया]
 
अनेनापि वाक्येन व्याधवध्वा शिखिपिञ्छकर्णपूराया
नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते । तत्सम्भोगै-
करसो मयूरमात्रमारणसमर्थः पतिर्जात इत्यर्थप्रकाशनात्
तदन्यासां चिरपरिणीतानां मुक्ताफलरचितप्रसाधनानां दौर्भाग्या-
तिशयः ख्याप्यते ।
 
विशेषः
 
तत्सम्भोगकाले स एव व्याधः करिवरवध- व्यापारसमर्थ
 
आसीदित्यर्थप्रकाशनात् ।
 
प्रभेदः, प्रकारः, व्यक्तिः ।
 
विशेषकम्
 
त्रिपरिसमाप्तक्रियं पद्यत्रयम् विशेषकम्।
 
"त्रिभिश्लोकै र्विशेषकम् ।" इत्युक्तम् अग्निपुराणे।