This page has not been fully proofread.

ध्वन्यालोकपारिभाषिकपदकोशः
 
अत्र ह्यसमर्मितमपि कुसुमशरेण मधुमासलक्ष्म्या गुरगं
गृहीतमित्यसमर्पितमपीत्येतदर्थाभिधायिपदमर्यशक्त्या कुसुमशरस्य
बलात्कारं प्रकाशयति ।
 
/
 
8.3
 
विवक्षिताभिधेयस्य कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे
प्रभेदे वाक्यप्रकाशता
 
सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् ।
अभिनवसहकरमुखान् नवपल्लवपत्रलाननङ्गस्य शरान् ॥
 
अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय
शरानित्ययं वाक्यार्थः कविप्रौढेक्तिमात्रनिष्पन्नशरीरो मन्मथो-
न्माथकतापादनावस्थानं वसन्तसमयस्य सूचयति ।
 
विवक्षिताभिधेयस्यस्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे
 
पदप्रकाशता
 
वाणिअअ हत्थिदन्ता कुत्तो अम्हाण वाघकित्ती अ
जाव लुलिआलअमुही घरम्मि परिसक्के सुण्हा ॥
[वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च ।
यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ॥ छाया]
 
अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः स्वतः
सम्भावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः
सततसम्भोगक्षामतां प्रकाशयति ।