This page has been fully proofread once and needs a second look.

82
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे
 

पदप्रकाशता, वाक्यप्रकाशता च
 

("प्रातुं धनैरर्थिजनस्य वाञ्छां दैवेन सृष्टो यदि नाम

नास्मि । पथि प्रसन्नाम्बुधरस्तडागः कूपोऽथवा किं न जडः

कृतोऽहम् ।")
 

अत्र हि ज़ड इति पदं निर्विण्णेन वक्त्रात्मसमानाधिकर-

णतया प्रयुक्तमनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या

प्रतिपद्यते ।
 

वाक्यप्रकाशता यथा हर्षचरिते सिंहनादवाक्येषु

'वृत्तेऽस्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषः ।'
 

एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव

प्रकाशयति ।
 

 
विवक्षिताभिधेयस्यकविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे
प्रभेदे पदप्रकाशता

यथा हरिविजये--
-
 
विवक्षिताभिधेयस्यकविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे
 

चूअकुरावअंसं छणपसरमहघ्घणमणहसुरामोअण् ।

असमप्पिअं पि गहिअं कुसुमसरेण महुमासलच्छिमुहम्।
 

[चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम् ।

असमर्पितमपि गृहीतं कुसुमशरेण मधुमासल्क्ष्मीमुखम् ॥ छाया]