This page has been fully proofread once and needs a second look.

अङ्गम्
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

 

अवयवः; शरीरादेरेकदेशः, गौणम्, अप्रधानम् । उपकरणम् ।
 
अङ्गत्वम्
 

 
अङ्गत्वम्
अङ्गस्य भावः । अप्राधान्यम् । अवयवत्वम्। उपकरणत्वम्।
 
उपकारकत्वम् ।
 

 
अङ्गाङ्गिभावः
 

अगस्य अङ्गिनो भावः । अवयवावयविभावः, गौणमुख्य-

भावः, उपकार्योपकारकभावश्चास्य तुल्याः ।
 

 
अङ्गानि
 

दृश्यकाव्यवस्तुनि मुखप्रतिमुखगर्भविमर्शोपसंहृतिरूपसन्धि-

पञ्चकस्य चतुष्षष्ट्यङ्गानि नाट्यशास्त्रे प्रसिद्धानि सन्ति ।

तानि यथा
 
--
१) उपक्षेपः, परिकरः, परिन्यासः, विलोभनम्, युक्तिः, प्राप्तिः,

समाधानं, विधानं, परिभावना, उद्भेदः, करणं, भेदश्चेति

द्वादश मुखसन्ध्यङ्गानि भवन्ति ।