This page has not been fully proofread.

बहवोऽर्थाः विभाव्यन्ते वागङ्गाभिनयाश्रिताः ।
अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
भरतवचनम् ।
 
विभावौचित्यम्
 
"विभाव:, कारणम्, निमित्तं, हेतुरिति पर्यायाः" इति
 
विभावनिर्वहणसम्बद्धमौचित्यम्।
 
विरोधालङ्कारः
 
गुणस्य वा क्रियाया वा विरुद्धान्यक्रियाभिधा ।
या विशेषभिधानाय विरोधं तं विदुर्बुधाः ॥
 
इति भामहोक्तं लक्षणम् ।
 
भूरसौ ।
 
उपान्तरूडोपवनच्छायाशीतापि
विदूरदेशेनापि वः सन्तापयति विद्विषः ॥
 
81
 
इति तस्यैव उदाहरणम् ।
 
विरोधिरसः
 
कस्यचित् रसस्य विप्रियो विरुद्धो प्रतिकूलो वा रसः
विरोधिरसः । यथा करुणशृङ्गारयोः, वीरहास्ययोश्च विरोधित्वम्
विवक्षितान्यपरवाच्यध्वनिः/विवक्षितान्यपरवाच्यः
 
अभिधामूलध्वनिः विवक्षितान्यपरवाच्यध्वनिरिति कथ्यते ।
अत्र वाच्यमुखादेव व्यङ्ग्योऽर्थो गोचरति।