This page has been fully proofread once and needs a second look.

80
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
वाच्यालङ्कारवर्गः
 

अर्थालङ्कारेषु वाच्यार्थप्रधानानाम् अलङ्काराणां गणः

वाच्या-लङ्कारवर्ग इति व्यवहारो वर्तते ।
 

 
विच्छित्तिः
 

अङ्गरागः, शोभा, सौन्दर्यम्, हारभेदः, विच्छेदः,

चेष्टाभेदः, छेदः, नाशः, ज्ञानभागश्च।
 

 
विधिः
 

चिकीर्षाकृतिसाध्यत्वहेतुधीविषयो विधिरुच्यते । सः

उक्तप्रवर्तन रूपो वा नियोगरूपो वा भवति ।
 

 
विपक्षाश्रयः
 

विपक्षमाश्रित्य वर्तनम् ।
 

 
विप्रलम्भशृङ्गारः
 

विरहप्रधानः शृङ्गारः विप्रलम्भशृङ्गारः । विप्रलम्भस्याप्य-

भिलाषेर्ष्याविरहप्रवासविप्रलम्भादयः भेदाः दृश्यन्ते ।
 

 
विभक्तविषयता
 

कृत्यविषयाणां कर्तृसामर्थ्यादिकमनुसृत्य स्पष्टतया

पृथक्करणमेव विभक्तविषयता इत्युच्यते ।
 

 
विभावः
 

रसस्य कारणम् विभावः । विभाव्यन्तेऽनेन वागङ्ग-

स्त्वभिनया इति विभावः ।