This page has not been fully proofread.

78
 
वर्णव्यङ्ग्यत्वम्
 
यो व्यङ्ग्यार्थः कैश्चिद्वर्णैरभिव्यज्यते तस्य व्यङ्ग्यार्थस्य
वर्णव्यङ्ग्यत्वमस्तीति ग्राह्यम् ।
 
वस्तु
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
इतिवृत्तमथवा कथावस्तु वस्त्विति कथ्यते । वसन्त्यस्मिन्
सर्वाः कार्यावस्थाः, सर्वा; अर्थप्रकृतयः, पञ्चसन्धयः,
सन्ध्यङ्गादीनीतराणि चेति कारणॆन वस्त्विति कथ्यते ।
आधिकारिक - प्रासङ्गिकभेदेन वस्तु द्विविधं भवति ।
 
वाक्यम्
 
वाक्यं स्यात् योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः ।
योग्यता पदार्थानां परस्परसम्बन्धे बाधाभावः । आकाङ्क्षा
प्रतीतिपर्यवसानविरहः । आसत्तिः बुद्ध्यविच्छेदः ।
 
वाक्यव्यङ्ग्यत्वम्
 
यो व्यङ्ग्यार्थः कैश्चिद्वाक्यैरभिव्यज्यते तस्य व्यङ्ग्यार्थस्य
वाक्यव्यङ्ग्यत्वमस्तीति ग्राह्यम्।
 
वाक्यार्थः
 
केवलपदार्थपरिमितो न भवति वाक्यार्थः । वाक्यगत
पदानामर्थेन साकं वक्तृविवक्षितं कमपि विशेषार्थं च बोधयति
वाक्यम् । स च विशेषार्थः एव वाक्यार्थ उच्यते ।