This page has not been fully proofread.

मवलम्ब्य प्रयुज्येते तदातयोश्शब्दार्थयॊः अलङ्कारत्वं भवतीति
भामहस्याभिप्रायः । अत एव तेन -
 
सैषा सर्वत्र वक्रोक्तिरन्याऽर्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।
इति "वक्राभिधेयशब्दोक्तिरिष्टावचामलङ्कृति" इति, "वाचां
वक्रार्थशब्दोक्तिरलङ्काराय कल्पते' इति च न्यगादि ।
 
ततः परं राजानककुन्तकः वक्रोक्तिजीवितग्रन्थकारः
वक्रोक्तिप्रस्थानं निर्माय "वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते"
वक्रोक्तेः काव्यात्मत्वमेव प्रत्यपादयत् । तथा केवलालङ्कारस्थितेः
काव्यात्मस्थानकल्पनेन वक्रोक्तेः वैशिष्ट्यम् आविष्कृतवान्।
 
वर्णाः
 
वर्णाः अक्षराणि।
 
"सव्यञ्जनः सानुस्वारो शुद्धो वा स्वरोऽक्षरम् ।" इति
ऋक्प्रातिशाख्यम्। स्वर्यन्ते शब्द्यन्ते इति स्वराः। परेण स्वरेण
व्यज्यते इति व्यञ्जनम् ।
 
ह्रस्वत्व - दीर्घत्व - प्लुतत्व- उदात्तत्व - अनुदात्तत्व
 
स्वरितत्त्वानि स्वरधर्माः ।
 
अर्धमात्राकालता, स्वरवशेनोदात्तानुदात्त- स्वरितत्वं,
 
संयोगश्च व्यञ्जनधर्माः ।