This page has been fully proofread once and needs a second look.

74
 
एते रसवदाद्यलङ्काराः शुद्ध सङ्कीर्ण भेदेन
 

दिविधाः ।
 

 
रसविरोधिनी
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

रसोत्कर्षस्य वा रसोद्दीपनस्य वा रसाभिव्यक्तेर्वा याऽवरोधं
 

कल्पयति सा रसविरोधिनीति ज्ञेया ।
 

 
रसादिः
 

स च रसादिरलङ्कारः शुद्धः सङ्कीर्णो वा ।
 

 
रसाभासः
 
-
 

अनौचित्येन प्रवृत्तेर्दुष्टः रसः रसाभासः।
 

 
रसाभिव्यक्तिहेतुः
 

रसप्रतीतेः कारणम्। विभावादिकम् । कदाचित् रीति-

गुण-अलङ्कारादयोऽपि रसाभिव्यक्तिहेतवो भवन्ति ।

 
रसोद्दीपनम्
 

विभावाः आलम्बनविभावाः, उद्दीपनविभावाश्चेति

द्विप्रकारकाः। तेषु उद्दीपनविभावाः रसान् उद्दीपयन्ति ।
 

रसस्वभावमनुसृत्य उद्दीपनविभावाः अपि भिन्नरूपेषु

भवन्ति । उदाहरणार्थं शृङ्गाररसस्य विषये नायिकानायकौ

आलम्बनविभावरूपिणौ भवतः । कोकिलालापाः, गुञ्जद्भ्रमर-