This page has been fully proofread once and needs a second look.

रसप्रशमनम्
 
रसभावसमन्वितः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

समग्रसामग्रीसमुपतेस्य रसस्य परिपूर्णविकासानन्तरं

समुचितॆ समये यदि सः रसः शान्त्यवस्थामाप्नोति तद्रस-

प्रशमनमिति ज्ञेयम् ।
 

 
रसभङ्गः
 

रसस्य समग्रसामग्रीसमेतस्य समुचितक्रमेणाविष्कारे

वैफल्यम् एव रसभङ्ग उच्यते ।
 

 
रसभावसमन्वितः
रसेन / रसैर्वा, भावैश्च युक्तः ।
 

 
रसभावरहितः
 
73
 

रसेन / रसैर्वा, भावैश्च विरहितः नीरसः वस्तुसन्दर्भः ।
 

 
रसवदलङ्कारः / रसादिलक्षण:
 

यस्मिन् काव्ये प्रधानतयान्योऽर्थः वाक्यार्थीभूतः रसादयः

तस्य च अङ्गभूताः भवन्ति तत्र काव्ये रसादयोऽलङ्काराः

भवन्ति इति ध्वनिकारस्य अभिप्रायः । एतस्मिन् सन्दर्भे यत्र

रसाः अङ्गभूताः तत्र रसवदलङ्कारः, भावाः यत्र अङ्गभूताः

तत्र प्रेयोऽलङ्कारः, रसाभासभावाभासौ यत्र अङ्गभूतौ भवन्ति

तत्र ऊर्जस्वि, तथैव भावशान्त्यादिषु समाहितालङ्कारश्च

सम्भवन्तीति अत्र गम्यते ।