2023-06-23 06:37:47 by jayusudindra
This page has been fully proofread once and needs a second look.
यमकम्
शब्दाभ्यासस्तु यमकम् पादादिषु विकल्पितम्। इति
भरतमुनेः वचनम् । अत्र अभ्यासो नाम पुनरुक्तिः ।
अर्थेसत्यर्थभिन्नानां सा पुनः श्रुतिः यमकमिति मम्मटा-
चार्यस्य मतम् । एतन्मतानुसारं सत्यर्थे कस्मिंश्चित् भिन्नार्थकाणां
(अर्थान्तरे) समानवर्णानां (वर्णयोर्वा) पुनः श्रुतिः (आवृत्तिः
उमकालङ्कारः भवति । अर्थात् प्रयुक्तानां वर्णानां वर्णयोर्वा
साम्यमनुभूयते । परन्तु ते च आवृत्तिक्रमे भिन्नार्थबोधकाः भवन्ति
चेत् तत्र यमकालङ्कार इति ज्ञेयम् ।
र
रचनाव्यञ्जकत्वम्
"रचना सङ्घटना" इति लोचनकारस्य वचनम् । सा
च सङ्घटना त्रिविधा। दीर्घसमाससङ्घटना, मध्यमसमास-
सङ्घटना, असमाससङ्घटना चेति । त्रिविधाऽपीयं सङ्घटना
कदाचित् रसादिव्यञ्जको भवति ।
रचनायाः तादृक् स्वभाव एव रचनाव्यञ्जकत्वमिति
कथ्यते ।
रतिः
शृङ्गाररसस्य स्थायीभावः रतिः । रतिः प्रमोदात्मिका ।