This page has been fully proofread once and needs a second look.

मुक्तकम्
 

"मुक्तकं श्लोक एवैकश्चमत्कारक्षमःसताम्" इति निरुच्यते ।

''मुक्तकमन्यपद्यासम्बद्धम् स्वातन्त्र्येणार्थबोधनक्षममेव मुक्तकम्॥"

इति निरुच्यते ॥
 

 
मुख्यवृत्तिः
 

अभिधावृत्तिः । त्रिविधशब्दव्यापारेषु प्रथमव्यापारोऽयम् ।
 

 

 

 
यथासङ्ख्यध्वनिः
 

यथासङ्ख्यालङ्कारप्रधान निसन्दर्भः अर्थात्

यथासङ्ख्यालङ्कारवशात् यत्र व्यङ्ग्यार्थस्य चारुता समुत्पद्यते

तत्र यथासङ्ख्यध्वनिरिति ग्राह्यः।
 

अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च सहकारः ।

अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः । ।
 

"अत्र हि यथोद्देशमनूद्देशे यच्चारुत्वमनुरणनरूपं

मदनविशेषणभूताङ्कुरितादिशब्दगतं तन्मदनसहकारयो-

स्तुल्ययोगितासमुच्चयलक्षणाद्वाच्यादतिरिच्यमानमालक्ष्यते ।

एवमन्येऽप्यलङ्कारा यथायोगं योजनीयाः ।" इत्यानन्दवर्धना-

चार्यस्य वचनेष्वेव प्रस्तुतमस्ति ।