This page has not been fully proofread.

भूमा
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
अतिशयः, बहुत्वम्।
 

 
69
 
मध्यमसमासा सङ्घटना
 
यस्यां सङ्घटनायां समासाः नातिस्वल्पाः नातिदीर्घाश्च
भवन्ति सा सङ्घटना मध्यमसमासा सङ्घटना इत्युच्यते ।
 
महाकविः
 
अस्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदास-
प्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते ।
 
महावाक्यम्
 
(योग्यताकाङ्क्षासत्तियुक्तः) वाक्योच्चयो महावाक्यम् ।
इति विश्वनाथः । रामायण-महाभारत-रघुवंशादि महावाक्यम्
भवति ।
 
माधुर्यम्
 
इति मम्मटाचार्योक्तिः ।
 
आनन्दवर्धन- मम्मटादिभिः प्रोक्तेषु त्रिषु गुणेषु अन्यतमः ।
आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ।
करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ॥