This page has been fully proofread once and needs a second look.

68
 
भावशान्त्युदयसन्धिशबलत्वानि
 

अपरिच्छिन्नानन्दचिन्मयब्रह्मसतत्त्वस्य रसस्य शान्त्युदय-

सन्धिशबलत्वानि नैव सम्भवन्ति । तस्माद्भावानुबन्धीन्येवैतान्या-

स्वादपदवीमवतरिन्ति ।
 

 
भावशान्तिः
 

भावस्य प्रशाम्यदवस्था भावशन्तिरित्युच्यते ।
 

 
भावसन्धिः
 

द्वयोः तुल्यकक्षयोः भावयोः युगपदास्वादः भासन्धि-

रित्युच्यते ।
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

 
भावशबलता
 

निरन्तरतया भवनं पूर्वपूर्वोपमर्दिनामास्वादः भावशबलता ।
 

 
भावाभासः
 

अनौचित्येन प्रवृत्तेर्दुष्ट: भावः भावाभासः ।
 

 
भावोदयः
 

भावस्य उद्गमावस्था ।
 

 
भावौचित्यम्
 

उचिते स्थाने उचितक्रमेण नात्यल्पनातिदीर्घवधियावत्
 

भावपोषणेन भावौचित्यम् जायते ।