This page has been fully proofread once and needs a second look.

भयम्
 
क्रूरमृगाणां, शिथिलगृहाणां च दर्शनम्, अरण्यप्रवेशः, मरणम्,

स्वजनवधबन्धनादिश्रवणम्, दर्शनम् वा अस्य रसस्य विभवाः

भवन्ति । शरीरप्रवेपनम्, करचरणनयनादीनां चलनम्, मुखवैवर्ण्यम्,

विस्वरत्वम् च अनुभावाः । स्तम्भ - स्वेद - गद्गद - रोमाञ्चादयः

सञ्चारिभावाः ।
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
भावः
 
दैन्यात्मकचित्तवृत्तिः।
 

 
भयम्
भयानकरसस्य स्थायीभावः । अनिष्टदर्शनाज्जात-

दैन्यात्मकचित्तवृत्तिः।
 
भावः
वागङ्गसत्त्वोपेतान् कव्यर्थान् भवयन्तीति भावाः ।

विभावेनाहृतो योऽर्थस्त्वनुभावेन गम्यते ।

वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥
 
भावना
 
67
 

नानभिनयसम्बन्धान् भावयन्ति रसानिमान्।

यस्मात्तस्मादमी भावाः विज्ञेयाः नाट्ययोक्तृभिः ॥
 

 
भावना
१) अनुभवजन्यः स्मृतिहेतुः । २) संस्कारभेदः । अयं

संस्कारभेदः अतीन्द्रियः । क्वचिदियं स्पन्देऽपि कारणं भवति ।

भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः । उपेक्षनात्मकस्तस्य

निश्चयः कारणम् भवेत्। स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते।