This page has not been fully proofread.

बीभत्सः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
65
 
जुगुप्सा स्थायीभावात्मको रसः बीभत्सः । अहृद्यस्य
अप्रियस्य वा विषस्य दर्शनेन अनिष्टविषयश्रवणेन दर्शनेन
परिकिर्तनेन वा तत्सदृशैरन्यैः विभावैर्वा उत्पद्यते अयं रसः ।
मुखस्य नेत्रयोश्च विघूर्णनम्, हृल्लेखनम्, निष्ठीवनम्, उद्वेजनम्,
तदितराणि च अस्य अनुभावाः । अपस्मार - आवेग - मोह -
व्याधि - मरणादयः अस्य व्यभिचारिभावाः ।
 
-
 
बुधाः
 
काव्यतत्त्वविदः अथवा काव्यमर्मज्ञाः।
 

 
भक्तिः/भाक्तः
 
गौणवृत्तिः भक्तिः। ततः आगतो गौणोऽर्थो भाक्तः ।
एतस्मिन् विषये - भज्यते सेव्यते पदार्थेन प्रसिद्धतयोत्प्रेक्ष्यत
इति (अयं निमित्तपरक - व्युप्तत्तिः) भक्तिर्धर्मोऽभिधेयेन
सामीप्यादिः, तत आगतो भाक्तो लाक्षणिकोऽर्थः। यदाहुः
अभिधेयेन सामीप्यात्सारूप्यात्समवायतः ।
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥ इति ।
गुणसमुदायवृत्तेः शब्दस्यार्थभागस्तैक्ष्ण्यादिर्भक्तिः, तत
आगतो गौणोऽर्थो भाक्तः । भक्तिः प्रतिपाद्ये सामीप्यतैक्ष्ण्यादौ
 
-