This page has been fully proofread once and needs a second look.

64
 
प्राधान्यविवक्षा
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

प्राधान्येन प्रधानमिति वा वक्तुमिच्छा ।
 

 
प्रेयोऽलङ्कारः
 

प्रेयः प्रियतराख्यानं रसवद्रसपेशलम् ।

ऊर्जस्विरूढाहङ्कारं युक्तोत्करषं च तत् त्रयम् ॥

इति काव्यदर्शोक्तमस्य लक्षणम् ।
 

अथोदाहरणानि
 

१) अद्य या मम गोविन्द जाता त्वयि गृहागते ।

कालेनैषा भवेत् प्रीतिस्त्वय्वागमनात् पुनः ॥
 

२) इत्याह युक्तं विदुरो नान्यतस्तादृशी धृतिः ।

भक्तिमात्रस्माराध्यः सुप्रीतश्च ततो हरिः ॥
 

३) सोमः सूर्यो मरुभूमिर्व्योम होतानलो जलम्।

इति रूपाण्यतिक्रम्य त्वां द्रष्टुं देव के वयम् ॥
 

इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः ।
प्रीतिप्रकाशनम् तच्च प्रेय इत्यवगम्यताम्॥
 

बन्धः
 
इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः ।
प्रीतिप्रकाशनम् तच्च प्रेय इत्यवगम्यताम्॥
 

 

गद्य - पद्य - रूपकादिप्रकारेषु रचना ।