This page has been fully proofread once and needs a second look.

प्रतिभा
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
61
 

पञ्चविधबुद्धिविशेषेषु स्मृति - मति - बुद्धि - प्रज्ञा

प्रतिभाख्येषु अन्तिमः।
 

"नवनवोन्मेषशालिनी प्रज्ञा प्रतिभा मता" इति तस्य

निर्वचनम्। एतदेव प्रत्युत्पन्नमतित्त्वमित्यपि कथ्यते। प्रतिभैव

काव्यकारणमिति तज्ज्ञामभिप्रायः । प्रतिभायाः काव्यकारणत्वे

केचन मतभेदाः सन्ति ।
 
I
 

केचन प्रतिभा, व्युत्पत्तिः, अभ्यासश्च काव्यकारणमिति

कथयन्ति। अन्ये प्रतिभा काव्यकारणमिति व्युत्पत्त्यभ्यासौ

सहकारिणौ इति वदन्ति । अपरे पुनः प्रतिभैव कारणमिति सा

च सहजा औपासिकी, आभ्यासिकी चेति त्रिधा इति कथयन्ति ।
 

तेषां मते प्राक्तनजन्मसंस्कारजन्या सहँजा इति, देवतोपा-

सनादिबलात्प्राप्ता औपासिकी इति, व्युत्पत्त्यभ्यासजन्या

आभ्यासिकी इति एवं त्रिविधा अपि काव्यकारणम् भवतीति

भणन्ति।
 

केषाञ्चिदितरेषां मते द्विविधेयं प्रतिभा कारयित्री भावयित्री

भेदेन । तत्र कविगता काव्योत्पत्तिहेतुरूपा प्रतिभा कारयित्री

प्रतिभेति कथ्यते । सहृदयगता काव्यास्वादनसामर्थ्यरूपा प्रतिभा

भावयित्री प्रतिभेत्युच्यते । अलङ्कारशास्त्रे प्रतिभायाः एव

शक्तिरित्यपि व्यवहरोऽस्ति ।