This page has been fully proofread once and needs a second look.

60
 
प्रकृतिः
 

प्रकृतिह्युत्तममध्यमाधमभावेन दिव्यमानुषादिभावेन च
 

विभेदिनी ।
 

 
प्रकृत्यौचित्यम्
 

पात्रोचितव्यवहारभिज्ञता / व्यवहारो वा प्रकृत्यौचित्यमिति
 

प्रोच्यते ।
 

 
प्रख्यातवस्तु
 

इतिहासोद्भवं लोकप्रसिद्धं वा वस्तु प्रख्यातवस्त्विति
 

कथ्यते ।
 

 
प्रतिपादकः
 

बोधकः अंशः ।
 

 
प्रतिपादनम्
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

बोधनम्।
 

 
प्रतिपाद्यः
 

बोधनीयः विषयः ।
 

 
प्रतिपाद्यप्रतिपादकसम्बन्धः
 

बोधनीयबोधकांशयोर्मध्ये विद्यमानः सम्बन्धः ।
 

 
प्रतिबिम्बकल्पम्
 

प्रतिगतं बिम्बं प्रतिबिम्बमथवा प्रतिच्छाया । तत्सदृशम्
 

प्रतिबिम्बकल्पम् ।