This page has been fully proofread once and needs a second look.

58
 
परुषा
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

वाचकाश्रितासु अनुप्रासभेदरूपवृत्तिषु अन्यतमा । अस्याः

एव नागरिकेति नामान्तरम् । ओजोव्यञ्जकवर्णसमन्विता वृत्तिः

परुषा । अत एव ''ओजः प्रकाशकैस्तैस्तु परुषा' इत्यवोचि तज्ज्ञैः ।

 
पर्यायबन्धः
 

खण्डकाव्यस्वरूपः समाप्तायामपि अवान्तरक्रियायां

वसन्ताद्येकतमवर्णनीयवस्तुवर्णनात्मकः प्रबन्धः पर्यायबन्ध उच्यते ।
 

 
पर्यायोक्तिः
 

पर्यायोक्तं तु गम्यस्य वचो बङ्ग्यन्तराश्रयम् ।

नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ इति,
 

पर्यायोक्तं तदप्याहुर्यद्व्याजेनेष्टसाधनम् ।

यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥

इति च चन्द्रालोके प्रोक्तम्।
 

 
पारमार्थिकान्तस्तत्त्वम्
 

परमार्थतः भवं आगतं वा समग्रस्य विषयस्य साररूपेण

अन्तर्विद्यमानं तत्त्वम् पारमाथिकान्तस्तत्त्वमिति कथ्यते ।

प्रकरणम्
 

१) प्रस्तावः । २) सान्दर्भिकविषयः ३) ग्रन्थबन्धः । ४)

एकार्थप्रतिपादकग्रन्थांशः । ५) दशविधप्रधानरूपकेषु अन्यतमः ।