This page has not been fully proofread.

पदप्रकाशता
 
इति ग्राह्यम् ।
 
पदार्थः
 
व्यङ्ग्यस्य पदमुखेन प्रकाशनं यत्र वर्तते तत्र पदप्रकाशता
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
शब्दाभिधेयः द्रव्यादिःपदार्थ इत्युच्यते ।
 
पदार्थप्रतीतिः
 
57
 
ज्ञानम् पदार्थज्ञानम्।
 
पदावयवः
 
पदस्य अर्थः पदार्थः - वाच्यार्थः/अभिधेयः । तस्य प्रतीतिः
 
पदस्य अवयवः पदगतः पदनिर्माणहेतुकः अंशः
पदावयवः । एते पदावयवः प्रकृति- प्रत्ययभेदेन द्विप्रकारकाः ।
परिकथा
 
"कथाख्यायिकयोर्मिश्रभावात् परिकथा स्मृता ।" इति
वाक्यमनुसृत्य कैश्चित् कथालक्षणैः, कैश्चित् आख्यायिका-
लक्षणैश्च युक्ता परिकथेत्युच्यते ।
 
परिस्पन्दः
 
सर्वतो भावेन स्पन्दनम् । १) परिवारः । २) परिकरः ।
३) कुसुमप्रकरादेः पत्रावल्यादेश्च रचना ४) मर्दनं चेति इतरे
अर्थविशेषाः ।