This page has been fully proofread once and needs a second look.

56
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
न्यायः
 
न्यायः
१) उचितः ।
 

२)
 
गोतमप्रणीतषोडशपदार्थनिरूपकशास्त्रभेदः । ३) वाक्यभेदः ।

४) नयः, नीतिर्वा । ५) नीतिसाधनोपायः (साम - दान - भेद-

दण्डरूपः ) ।
 

६) विष्णुः । (अग्रणी ग्रामणीः श्रीमान् न्यायो नेता समीरिणः

इति वचनात् । )
 

७) प्रमाणानुग्राहकस्तर्को न्यायः । ८) वेदार्थनिर्णयसाधनम्।

९) लोकशास्त्रप्रसिद्धदृष्टान्तप्रकाराः (एते एव लौकिकन्यायाः

इति प्रसिद्धाः ।) ।
 

यथा – अजकृपाणीयन्यायः, अध्यारोपन्यायः, अन्धकूपन्यायः
 

इत्यादयः ।
 

 

पक्षसंसिद्धिः
 

 

साधनीयः अर्थः पक्षः । तस्य सम्यक्
 
- अनायासेन
सिद्धिः - निष्पत्तिः पक्षसंसिद्धिरित्युच्यते ।
 
पदम्
 
1-

 
पदम्
सुप्तिङन्तम् पदम् । वर्णाः पदम् प्रयोगार्हानन्वितैकार्थ-
बोधकाः । अर्थबोधकशक्तिविशिष्टम् पदम् ।
 
अनायासेन
 
सुप्तिङन्तम् पदम् । वर्णाः पदम् प्रयोगार्हानन्वितैकार्थ-