This page has been fully proofread once and needs a second look.

54
 
दीर्घसमासा सङ्घटना
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

यत्र दीर्घसमासरचना वर्तते तत्र सा सङ्घटना दीर्घसमा-

सङ्घटना इत्युच्य्ते।
 

 
दोषः
 

मुख्यार्थहतिर्दोषः रसश्च मुख्यस्तदाश्रयाद्वाच्यः ।

उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥

इति मम्मटः ।
 

''रसापकर्षकाः दोषाः" इति साहित्यदर्पणकारः ।

उद्देश्यप्रतीतिविघातकः दोष इत्युच्यते अन्यैः। स च

दोषो द्विविधः नित्यः अनित्यश्चेति । अनुकरणाद्वा येन केनाप्यन्येन

प्रकारेण समाधातुमशक्यः नित्यः दोषः । अन्यादृशस्त्वनित्यः ।
 

 

 

धीरोदात्तः
 

महासत्त्वोऽतिगम्भीर: क्षमावानविकत्थनः ।

स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतः ॥
 

इति धनञ्जयविहितं निर्वचनम्।
 

 
ध्वनिः
 

ध्वन्यते शब्दवाच्यापेक्षयाऽधिकचमत्कारितया प्रतीयते

योऽर्थः सः ध्वनिः इति योगमर्यादया व्यङ्ग्यविशेषो ध्वनि-