2023-06-23 06:10:37 by jayusudindra
This page has been fully proofread once and needs a second look.
तुच्छात्म इति कथ्यते ।
ध्वन्यालोकपारिभाषिकप
द
दीपकम्
नानाधिकरणार्थानां शब्दानां सम्प्रदीपकम् ।
एकवाक्येन संयुक्तं तद्दीपकमिहोच्यते ॥
( उदा) सरांसि हंसयः कुसुमैश्च वृक्षाः मत्तैर्द्विरेफैश्च सरोरुहाणि ।
गोष्ठीबिरुद्यानवनानि चैव तस्मिन्नशून्यानि सदा क्रियन्ते ॥
इति भरतमुनेः वचांसि ॥
दीप्तिः
द
वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः ।
मदेन भाति कलभः प्रतापेन महीपतिः ॥
इति चन्द्रालोके जयदेवस्य वचनम् ।
दीपनम्
दीर्घसमासरचना
53
दीपनम्
प्रकाशनम् । शब्दात् अर्थस्य प्रकाशनम् दीपनमुच्यते ।
दीप्तिः
कान्तेस्तु विस्तरः । कान्तेरेवातिविस्तीर्णा दीप्तिरित्य-
भिधीयते। (साहित्यदर्पणे)।
दीर्घसमासरचना
यस्यां रचनायां अतिदीर्घाः समासाः प्रयुज्यन्ते सा रचना
दीर्घसमासरचना भवति ।