2023-06-22 07:04:32 by jayusudindra
This page has been fully proofread once and needs a second look.
ध्वन्यालोकपारिभाषिकपदकोशः
९) सत्त्वरजस्तमांसि। १०) स्वभावः।
तद्व्यक्तिसामर्थ्ययोगी
व्यङ्ग्यार्थस्य प्रकाशनसामर्थ्यवान् शब्दः । (तस्य
व्यङ्ग्यस्य व्यक्तिसामर्थ्येन व्यञ्जनशक्त्या योगः सम्बन्धः यस्य
शब्दस्य वर्तते सः शब्दः 'तद्व्यक्तिसामर्थयोगी' इति कथ्यते।
तात्पर्यम्
त्रिविधः ।
अभिधेयः, प्रत्याय्यः, ध्वनिरूपश्चेति तात्पर्यार्थश्च
-
त्रिविधः ।
"कारकादिविशिष्टो यः सोऽभिधेयः क्रियाधिकः ।"
'प्रतीयमानो वाक्यार्थो यस्स प्रत्याय्य ईरितः ।"
"अर्थतश्शब्दतश्चैव ध्वनिरूपो द्विधा मतः ।"
विवक्षितमभिप्रायः फलं भावः प्रयोजनम् ।
तात्पर्यमिति पर्यायशब्दाः वाक्यार्थगोचराः ॥
तुच्छात्म
तुच्छः शून्यः आत्मा यस्य तत् तुच्छात्म । कथावस्तुनि
विद्यामानसंवादस्य त्रिविधभेदेषु अयं द्वितीयप्रकारः । यस्य
कस्यचित्कवेः कथावस्तु कस्यचिदन्यस्य कथवस्तुना तुल्यं
भवति चेत् तत्र संवादोऽस्तीति ग्राह्यम् । अयं संवादः त्रिविधः ।