This page has not been fully proofread.

पुरोवाक्
 
श्री महागणाधिपतये नमः । श्रीपरदेवतायै श्रीललितापराभट्टारिकायै नमः ।
मातापितृभ्यां नमः । महद्भ्यो गुरुभ्यो नमः ।
 
संस्कृतसाहित्यशास्त्रे मकुटायमानतया विराजमानः ग्रन्थः ध्वन्यालोकः ।
अयमेव सहृदयालोक इति, काव्यालोक इति च संज्ञितो वर्तते। सर्वसहृदय-
लोकानन्दवर्धनः राजनकानन्दवर्धनाचार्यः अस्य कर्ता। ध्वनिसिद्धान्तप्रतिपादन-
परोऽयं ग्रन्थः कारिकाभिः वृत्तिवाक्यैः परिकरश्लोकैः सङ्ग्रहश्लोकयः,
संक्षेपश्लोकैश्च विभूषितस्सन् पठितृहृदयहारी विभाति ।
 
उद्योतचतुष्टयपरिमितेऽस्मिन् ग्रन्थे क्रमशः विषयविभागोऽनेन क्रमेण
 
"
 
"
 
"
 
-
 
दृश्यते ।
 
अलङ्कार
 
रसनिमित्तानां
 
तत्र प्रथमोद्योते काव्यस्यात्मा ध्वनिरिति प्रतिज्ञाय स्वमतसमर्थनोचित-
परम्परामपि निरूप्य ततः ध्वनिप्रस्थानिव्यतिरेकिणां मतत्रयमपि निराकरोत् ।
तस्मिन्नेव यत्ने ध्वनिगतानां त्रिविधानां वस्तु
भेदानां सूचनं कृत्वा वस्तुध्वनिगतविविधभेदानां परिचयमपि अकरोत् । ततः
परं ध्वनिप्रतिपादनानुकूलभूमिकां व्यरचयत् । ततः ध्वनिनिर्वचनमदात् ।
समासोक्त्यादिभ्योऽलङ्कारेभ्यः कथं ध्वनिः पृथग्भावमावहति इति सोदाहरणं
सहेतुकं च न्यरूपयत् । ततः परं भक्तिध्वन्योः भेदनिरूपणावसरे सम्भवत
अतिव्याप्त्यादिदोषाणामुपपादनमपि चकार ।
 
-
 
अथ द्वितीयोद्योते व्यङ्ग्यमुखेन ध्वनिनिरूपणायारब्धवान् । अस्मिन्
प्रयत्ने तेन रसध्वनेः, रसव्दलङ्कारस्य, गुणानां च सुस्पष्टनिरूपणमकारि।
अस्मिन्नेव क्रमे श्लेष - शब्दशक्तिमूलध्वन्योर्मध्ये भेदनिर्देशनमपि अकरोत् ।
अत्र व्यङ्ग्यमुखेन सम्भवतः विविधध्वनिप्रभेदान् सर्वानपि न्यरूपयत्।
 
अनन्तरं तृतीयोद्योते व्यञ्जकमुखेन सम्भवतां ध्वनेः विविधप्रभेदान्
निरूपयन् ध्वनिकारः गुणसङ्घटनयोर्भेदान्, रसविरोधिहेतून्, रसविरोधिपरिहारान्,
ध्वनिकाव्य - गुणीभूतव्यङ्ग्य - चित्रकाव्यलक्षणादींश्च प्रत्यपादयत्।
 
अन्ते चतुर्थोद्योते कविप्रतिभानन्त्यप्रस्तावावसरे भारत - रामायणादिषु
अङ्गिरसनिर्धारणं चकार । कविप्रतिभानन्त्यकल्पने ध्वनेः महत्तां निरूप्य
स्वग्रन्थस्योपसंहारमकरोत् ।