2023-06-22 07:01:19 by jayusudindra
This page has been fully proofread once and needs a second look.
अभिधेयः वाच्यार्थः । वाच्यार्थः व्यङ्ग्यार्थस्य अपेक्षया
अप्रधानो भवति चेत् सः गुणीभूताभिधेय इत्युच्यते ।
च
ध्वन्यालोकपारिभाषिकपदकोशः
च
चमत्कृतिः
चमत्कारश्चमत्कृतिः। "चमत्कारश्च चित्तविस्ताररूपः
विस्मयापरपर्यायः" इति विश्वनाथः ।
''रसेसारश्चमत्कारः सर्वत्राप्यनुभूयते ।" इति धर्मदत्तस्य
वाक्यम्। चमत्कारश्च लोकातीतार्थाकलनेन किमेतदितिज्ञान-
धाराजननेन चित्तवृत्तेः दीर्घविस्तारः । दृष्टहेतुभ्यः असम्भावि-
तत्त्वज्ञानेन हेत्वन्तरानुसन्धानाय मन्सो व्यापारभेद एव
चित्तविस्तार इति केषांचन विदुषामभिप्रायः ।
सुखविषशे एव चमत्कारः इति अपरे च ऊचुः । 'चमत्कारत्वं
च आह्लादगतो जातिविशेषः इति जगन्नाथपण्डितस्य मतम् ।
चाटवः
प्रियवाक्यानि अथवा मिथ्याप्रियवाक्यानि चाटवः इति
कथ्यन्ते ।
चारुत्वम्
मनोहारित्वमेव चारुत्वमिति कथ्यते ।