This page has not been fully proofread.

ध्वन्यालोकपारिभाषिकपदकोशः
 
ग्राम्या
 
एवं प्रकारेण गुणसङ्ख्याविषये बहुभेदाः दृश्यन्ते
विविधाचार्याणां मतेषु ।
 
उपनागरिकाख्या वृत्तिः ग्राम्या इति कथ्यते ।
 
49
 
गुणीकृतात्मा
 
गुणीकरणं नाम अप्रधानीकरणम्। वाचकः स्वयं, स्वस्य
अर्थं च कमप्यलौकिकार्थस्य प्रतीत्यर्थं अप्रधानीकरोति चेत्
तादृशः वाचकः शब्दः गुणीकृतात्मा इति वक्तुं शक्यते ।
गुणीभूतव्यङ्ग्यः -
 
व्यङ्ग्योऽर्थस्य गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूत-
व्यङ्ग्यो नाम काव्यप्रभेदः प्रकल्प्यते । अगूढ़ अपरस्याङ्गम् -
 
-
 
वाच्यसिद्ध्यगम् – अस्फुटम् । सन्दिग्ध - तुल्यप्राधान्ये काक्वाक्षिप्तम्
- असुन्दरम् इति मम्मटाद्याचार्यैः गुणीभूतव्यङ्ग्यस्य अष्टौ भेदाः
प्रोक्ताः ।
 
-
 
गुणीभूतव्यङ्ग्यत्वम् / गुणीभूतव्यङ्ग्यता
 
व्यङ्ग्यार्थस्य वाच्यार्थापेक्षया अप्रधानत्वं अथवा
गुणीभावत्वं वर्तते चेत् तत् गुणीभूतव्यङ्ग्यत्वम् अथवा
गुणीभूतव्यङ्ग्यता इत्युच्यते ।