2023-06-22 06:58:56 by jayusudindra
This page has been fully proofread once and needs a second look.
ध्वन्यालोकपारिभाषिकपदकोशः
गुणगुणिसम्बन्धः इत्युच्यते । अयं सम्बन्धः नित्यसम्बन्धः ।
गुणवृत्तिः
लक्षणावृत्तिः। संदृश्यमानसादृश्यादिगुणावलम्बनेन शब्दस्य
अर्थप्रकाशनरूपशक्तिः गुणवृत्तिः ।
गुणाः
गुणाः
"यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः ।" अग्निपुराणवचनम्।
" काव्यशोभायाः कर्तारो धर्माः गुणाः" इति वामनाचार्यमतम् ।
रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा गुणाः।" इति
विश्वनाथस्य मतम्। गुणकथन विषये आचार्येषु मतभेदाः सन्ति ।
श्लेषः प्रसादः समता समाधिर्माधुर्यमोजः पदसौकुमार्यम् ।
अर्थस्य चाव्यक्तिरुदारता च कान्तिश्च काव्यगुणाः दशैते ॥
इति भरतः ।
तमनुसृत्यैव दण्डिना अपि दश गुणाः एवाङ्गीकृताः ।
माधुर्यौजःप्रसादाख्यान् त्रीन् गुणानङ्गीकुर्वन्ति भामह -
आनन्दवर्धन
भरतदण्डिभ्यां प्रोक्तानेव दशगुणान् स्वीकृत्य दशार्थगुणाः,
दश शब्दगुणाश्चेति विंशतिगुणान् प्रस्तुतवान् वामनः । भोजेन
अष्टादशगुणाः प्रोक्ताः । विद्यानाथेन चतुर्विंशतिगुणाः प्रस्तुताः ।
-