This page has been fully proofread once and needs a second look.


गद्यबन्धः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 

पाद्विभागरहितकाव्यरचना ।
 

वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च ।

भवेदुत्कलिकाप्रायं चूर्णकञ्च चतुर्विधम् ॥
 

इति आलङ्कारिकवचनम् ।
 

 
गाथा
 

 

अथो गाथा पुराणादिकाव्यसम्बन्धिनी कथा ।

सा च पञ्चपदी वापि षट्पदी त्रिपदी भवेत् ॥

आर्या पदत्रिमात्रा स्याद्भाषा प्राकृतसंज्ञिता।

तालो रागश्च यः कश्चित् गाथेति परिकीर्तिता ॥
'

ति छन्दश्शास्त्रविदां वचः ।
 

आदौ द्वादश मत्रास्स्युः दशाष्टौ च ततः परम् ।

ततश्च द्वे दशार्यायाः तुर्ये पञ्चदशाधिकः ॥
 
गुणगुणिव्यवहारः
 
47
 

आर्या लक्षणसंयुक्ता गाथा प्राकृतभाषया।

गीयते पूर्ववद्रम्या छन्दोलक्षणवेदिभिः ॥ इति मतान्तरम् ।
 

 
गुणगुणिव्यवहारः
गुणः द्रव्यगतः विशिष्टो धर्मः । गुणयोगात् द्रव्यं (गुणः