This page has not been fully proofread.

46
 
काव्यार्थतत्त्वज्ञाः
 
आलङ्कारशास्त्रविदः । साहित्यकोविदाः ।
 
काव्योपनिषद्भूतम्
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
काव्यस्य मकुटायमानं तत्त्वम् । काव्यसारभूतं तत्त्वम् ।
 
कुलकम्
 
कुलकं पञ्चादिपरिसमाप्तक्रियं पद्यपञ्चकादि ।
 
क्रमेण द्योतितः (संलक्ष्यक्रमध्वनिः)
 
यस्मिन्नभिधेयार्थस्य पश्चात् व्यङ्ग्यार्थस्य प्रतीतिः क्रमेण
जायते तच्च क्रमः स्पष्टतया गम्यते सः संलक्ष्यक्रमव्यङ्ग्यो
ध्वनिः अथवा क्रमेण द्योतितव्व्यङ्ग्यो ध्वनिविशेषः इति तज्ज्ञां
अभिप्रायः ।
 
क्रोधः
 
रौद्ररसस्य स्थायीभावः ।
 

 
खण्डकथा
 
कथाख्यस्य गद्यकाव्यप्रकारस्य गर्भे चतुष्पदी निबन्धनं
यदि क्रियते सा खण्डकथेत्युच्यते । 'सा कथा नाम तद्गर्भे
निबध्नीयाच्च्तुष्पदीम्। भवेत् याऽऽसौ खण्डकथा॥" इति
अग्निपुराणवचनम् ।