2023-06-22 06:55:07 by jayusudindra
This page has been fully proofread once and needs a second look.
ततः परभृति सर्वेऽपि कालिदाससदृशाः उत्तमकवयः ब्रह्मशब्द-
भाजः विभान्ति । अत एव "अपारे काव्यसंसारे कविरेव प्रजापतिः"
इति प्रसिद्धिरागता ।
कविव्युत्पत्तिः
कवेः नानाशास्त्रज्ञानम् ।
काव्यच्छायान्वयी
काव्यम्
काव्यम्
कवनीयं काव्यम् । तस्य भावश्च काव्यत्वम् । सहृदय-
ध्वन्यालोकपारिभाषिकपदकोशः
हृदयाह्लादिशब्दार्थमयम् कवेः कर्म काव्यम् ।
काव्यत्वम्
काव्यत्वम्
कवनीयं काव्यम्। तस्य भावश्च काव्यत्वम् ।
काव्यात्मा
शरीरधारिणां सकलजीविनामु आत्मॆव शब्दार्थमयशरीरे
काव्ये अत्यन्तं प्रधानभूतः काव्यजीवातुभूतविषयः काव्यात्मेति
कथ्यते ।
काव्यविशेषः
काव्यस्य विशॆषः अर्थात् उत्तमं ध्वनिकाव्यम् । इति
दीधितिकारः ।