2023-06-22 06:54:03 by jayusudindra
This page has been fully proofread once and needs a second look.
ध्वन्यालोकपारिभाषिकपदकोशः
४) ब्रह्मा । ५) विष्णुः । ६) सूर्यः । ७) वाल्मीकिः । ८) कल्केः
ज्येष्ठभ्राता । ९) चौरयोद्धा १०) कवयति इति कविः ।
११) अतीतानागतविषयज्ञः क्रान्तदर्शी कविः । नानृषिः कुरुते
काव्यं ऋषिश्च किल दर्शनात् । तत्त्वप्रख्या च दर्शनम्।
कविनिबद्धः
कविना कल्पितः ।
कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः
अयमर्थशक्तिमूलध्वनिप्रभेदेषु अन्यतमः। यत्र चमत्कार-
जनकत्वं कविना निबध्देन (कल्पितेन) केनचिद् वक्त्रा प्रोक्तमिति
कारणेन अयं ध्वनि प्रकारः कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्न-
शरीरः इति कथ्यते ।
शिखरिणि क्वनु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
सुमुखि येन तवाधरपाटलं दशति बिम्बफलं शुकशाबकः ॥
इत्युदाहृतम् ।
कविवेधाः
कविब्रह्मा । यथा चतुराननः कमलोद्भवः ब्रह्मा जगतः
स्रष्टेति कथ्यते तथा चतुरवाक्भूषिताननः वल्मीकोद्भूतः प्राचेतसः
वंशजः वामीकिः काव्यजगतः स्रष्टा अभूदिति कारणेन जगन्निर्माणे