This page has been fully proofread once and needs a second look.

"
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
इतिहासौ सज्जनचरितम् उत्पाद्यम् चेति त्रिविधः वर्तते

कथाशरीराश्रयः ।
 

 
करुणरस:
 

शोकस्थायीभावप्रभवः करुणो नाम रसः । स च शाप -
 
-
 

क्लेश - विनिपात - इष्टजनविप्रयोग विभवनाश - बन्ध -
-

विद्रव – उपघात - व्यसन - संयोगादिभिः विभावैः समुपजायते।

अस्य च अश्रुपातन - परिदेवन - मुखशोषण - वैवर्ण्य - स्रस्तगात्रता
-

निश्वास - स्मृति विलोपादिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।

व्यभिचारिणश्चास्य निर्वेद ग्लानि चिन्ता औत्सुक्य
-
-

आवेग - मोह - श्रम - भय - विषाद - दैन्य - व्यधि - जडता
 

उन्माद अपस्मार त्रास
 
-आलस्य- मरण -स्तम्भ
वेपथु - वैवर्ण्य - अश्रु स्वरभेदादयः ।
 

 
कलापकम्
 
-
 
43
 
-
 
इति साहित्यदर्पणे प्रोक्तम् ।
 
आलस्य मरण स्तम्भ
 
-
 

चतुष्परिसमाप्तक्रियं पद्यचतुष्टयं कलापकम् । अत एव-

छन्दोबद्धपदं पद्यं तेनैकेन च मुक्तम् ।
 

द्वाभ्यां युग्मञ्च सन्दानितकं त्रिभिरिहेष्यते ।

कलापकं चतुर्भिश्च पञ्चभिः कुलकम् मतम् ॥
 

इति साहित्यदर्पणे प्रोक्तम् ।
 
कवि:
 

१) कवते सर्वं जानाति, सर्वं वर्णयति, सर्वं सरतो गच्छति वा
 

इति कविः ।