This page has been fully proofread once and needs a second look.

42
 
कथानायकः
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
कथानायकः
काव्यनायकः एव कथानायकः इत्युच्यते । स एव नेता
 

इत्युच्यते। धीरोदात्त-धीरोद्धत-धीरललित-धीरशान्तभेदेन नायकः

चतुर्विधः । शृङ्गाररसप्राधान्यमनुसृत्य नायकः अनुकूलः, दक्षिणः,

शठः, धृष्टः चेति चतुर्विधश्च ।
 

नायकसामान्यलक्षणानि दशरूपकादिनाटकलक्षणग्रन्थेषु

सङ्ग्रहेण एवं प्रकारेण प्रदर्शितानि ।
 

नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः ।

रक्तलोकः शुचिर्वग्मी रूढवंशः स्थिरो युवा ॥

बुद्ध्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः ।

शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥

इति नेता नायको विनयादिगुणसम्पन्नो भवतीति दशरूपके

प्रोक्तम् ।
 

 
कथाशरीरम्
 

काव्यगतस्य कथायाः वस्तु अथवा इतिवृत्तम् चेति नामनी

अपि वर्तेते। कथायाः आदितः अन्तपर्यन्तसन्दर्भः कथाशरीरम्

इति शब्द्यते । अतः कथा एव कथाशरीरमिति च गृह्यते ।

 
कथाशरीराश्रयः
 

कथायाः आकरः अथवा मूलम् कथाशरीराश्रयः इत्युच्यते ।