This page has not been fully proofread.

ध्वन्यालोकपारिभाषिकपदकोशः
 
नामचिह्नम्, हेतोरव्यापकः; आलङ्कारिकमते जातिगुणक्रिया-
यदृच्छास्वरूपः च। एवं विधस्य आलङ्कारिकमतोद्दिष्टस्य
उपाधे: धर्मः औपधिकधर्मः ।
 

 
कथा
 
१) प्रबन्धकल्पना। स्वयं रचना ।
 
प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः ।
परम्पराश्रया य स्यात् सा मताऽख्यायिका क्वचित् ॥
इति कोलाहलाचार्यः ।
 
कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् ।
क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापरवक्के ॥
आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम् ॥
यथा - कादम्बर्यादिः - इति साहित्यदर्पणे ।
श्लोकैः स्ववंशं संक्षेपात् कविर्यत्र प्रशंसति ।
मुख्यार्थस्यावताराय भवेद्यत्र कथान्तरम् ।
परिच्छेदो न यत्र स्याद्भवेद्वा लम्बकैः क्वचित् ।
 
सा कथा नाम --- ।
 
इति अग्निपुराणे ।
 
41