This page has been fully proofread once and needs a second look.

40
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् । इति,

उचितस्थानविन्यासादलण्कृतिरलङ्कृतिः ।

औचित्यादच्युता नित्यं भवन्त्येव गुणाः गुणाः ॥
 

इति च औचित्यस्य विषये क्षेमेन्द्रस्याभिप्रायः । तेनोदाह्रियते

अस्मिन सन्दर्भ -
 

कण्ठे मेखलया नितम्बफलके तारेण हारेण वा

पाणौ नूपुरबन्धनेन चरणे केयूरपाशेन वा ।

शौर्येण प्रणते रिपौ करुणया नायान्ति के हास्यता-

मौचित्येन विना रुचिं प्रतनुते नालण्कृतिर्नो गुणाः ॥ इति ।
 

क्षेमेन्द्रपूर्ववर्तिषु भरतादयः केचनाचायः औचित्यप्रस्ता

वमकुर्वन्। तत्र भरतेन
 
-
 

अदेशजो हि वेषस्तु न शोभां जनयिष्यति ।

मेखलोरसि बन्धे च हास्यायैवोपजायते ॥ इत्यवोचि ।
 

अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।

औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥
 

इति आनन्दवर्धनो जगाद ॥
 

 
औपाधिको धर्मः
 

उपाधिगतः धर्मः औपाधिकधर्मः । उपाधिः - धर्मचिन्ता;

छलम्; विशेषणम्; न्यायमतानुसारम् पदार्थविभाजकोपाधिमत्त्वम्,