This page has not been fully proofread.

ध्वन्यालोकपारिभाषिकपदकोशः
 
पादकत्वे सति स्वेतरप्रतिपादकत्वम् उपलक्षणस्य लक्षणम् ।
यथा काकॆभ्यो दधि रक्ष्यताम् इत्यत्र काकपदं स्वस्य स्वान्यस्य
श्वादेश्च बोधकम् भवति । तथा अजहत्स्वार्थया लक्षणया
काकशब्दः अस्मिन्नुदाहरणे अत्माना साकं सर्वेषां इतरेषां श्वादीनां
दध्युपघातकानामुपलक्षणम् भवति ।

 
-
 
ओजस्
 
काव्यशोभाकर्तृषु गुणेषु अन्यतमः ओजः । "ओजस्समा-
सभूयस्त्वमिति" इति दण्ड्याचार्यकृतनिर्वचनमनुसृत्य
काव्यनिबन्धने दीर्घदीर्घसमसबहुलता एव ओजः इत्युच्यते ।
यथा ''उद्दामद्विरदौघदानलहरीसौरभ्यलोभभ्रमद् ङ्गश्रेणि-

निबद्धझंकृतिकलावाचालितप्राङ्गणाः" एतत्सदृशसमासरचना
ओजः इति कथ्यते ।
 
वामनाचार्यस्य मते - गाढबन्धत्वमोजः (इति शब्दगुणः),
अर्थस्य प्रौढिरोजः (इति अर्थगुणश्च ) प्रतिपादितौ ।
 

 
औचित्यम्
 
39
 
उचितस्य भावः ।
 
उचितं प्राहुराचार्याः सदृशं किल यस्य यत् ।
उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ॥ इति,