This page has not been fully proofread.

38
 
[ तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।
बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥ छाया]
 
अत्र वाच्यतिशयोक्त्या कौस्तुभमणिप्रियाबिम्बाधरयोरुपमा
ध्वन्यते ।
 
उपमानम्
 
येन वर्ण्यमानविषयः उपमीयते तदुपमानम् भवति । यथा
चन्द्र इव मुखम् इत्यत्र 'चन्द्रः' उपमानम्।
 
उपमेयः
 
1
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
उपमीयतेऽसौ इति उपमेयः । उपमानेन उपमीयमानः
प्रस्तुते वर्ण्यमानविषयः उपमेयः । यथा चन्द्रः इव मुखम्
इत्यत्र ''मुखम्' उपमेयः ।
 
उपसर्जनीकृतस्वार्थः
 
गुणीकृतस्वार्थः अथवा अप्रधानीकृताभिधेयः वाचकः ।
व्यङ्ग्योपस्कारकत्वेन अप्रधानीकृतस्वात्मा अप्रधानीकृतस्वार्थः
(अप्रधानीकृतवाच्यार्थः) वाचकः । व्यङ्ग्यार्थद्योतनार्थं
अप्रधानीकृतस्वीयवाच्यरुपार्थः शब्द; (वाचकः)।
 
उपसर्जनीभावः
 
अप्राधान्यम्
 
उपलक्षणम्
 
उपलक्ष्यते स्वं स्वेतरं चानेनेति उपलक्षणम् । स्वप्रति-