This page has not been fully proofread.

ध्वन्यालोकपारिभाषिकपदकोशः
 
यत्किञ्चित्काव्यबन्धेषु सादृश्येनोपमीयते ।
उपमानाय सा ज्ञेया गुणाकृतिसमाश्रया ॥
प्रशंसा चैव निन्दा च कल्पिता सदृशी यथा ।
किञ्चिच्च सदृशी ज्ञेया ह्युपमा पञ्चधा पुनः॥
इति भरतः ।
 
11
 
" सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालङ्कृतिः॥"
 
इति रसगङ्गाधरकारः ।
 
उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः ।
हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते॥
इति चन्द्रालोके जयदेवः ।
 
37
 
उपमाध्वनिः
 
वीराणं रमइ घुसिणारुणम्मि ण तहा पिआथणुच्छङ्गे ।
दिट्ठी रिउगअकुम्भत्थलम्मि जह बहलसिन्दूरे
[वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे ।
दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥ छाया]
 
अत्र व्यतिरेको वाच्यः । उपमा च ध्वन्यते । यथा वा
ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य -
 
तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम्।
बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन ॥