This page has been fully proofread once and needs a second look.

36
 
ध्वन्यालोकपारिभाषिकपदकोशः
 
तिस्रोऽनुप्रासजातयो वृत्तय इत्युक्ताः; वर्तन्ते अनुप्रासभेदाः

आस्विति एतेषां वृत्तिसंज्ञा विहिता ।
 

सरूपव्यञ्जन्यासं तिसृष्वेतासु वृत्तिषु ।
 

पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥ इति लोचने ।

परुषानुप्रासा नागरिका । मसृणानुप्रासा उपनागरिका,

ललिता सा । नागरिकया विदग्धया उपमितेति कृत्वा उप-

नागरिकेति निगद्यते । मध्यमकोमलपरुषमित्यर्थः । अत एव

वैदग्ध्यविहीनस्वभावासुकुमारापरुषग्राम्यवनितासादृश्यादियं

वृत्तिर्ग्राम्येति कथ्यते। तत्र तृतीयः कोमलानुप्रासः इति वृत्तयोऽनु-

प्रासजातयः एव ।
 

 
उपमा
 

अर्थालङ्कारविशेषः । समस्तार्थालङ्कारप्रपञ्चस्य

मातेऽयमिति कीर्त्यते ।
 

उपमैका शैलृषी सम्प्राप्ता चित्रभूमिकाभेदान् ।

रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ॥
 

एका नटी नाट्यरङ्गे भिन्नभिन्नभूमिकाधारणं कृत्वा

यथा सामजिकानां चित्तहारिणी भवति तथा उपमैकैव काव्यरङ्गे

नानार्थालङ्काररूपतामेति निमित्तभेदात् रञ्जयति च

सहृदयहृदयान् इत उदीर्यते तद्विद्भिः ।